सुर्य आदित्य हृदय स्तोत्रम्




विनियोग
ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्य ऋषिरनुष्टुप्छन्दः, आदित्यहृदयभूतो भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः॥

ऋष्यादिन्यास 
ॐ अगस्त्य ऋषये नमः, शिरसि।
अनुष्टुप्छन्दसे नमः, मुखे।
आदित्यहृदयभूतब्रह्मदेवतायै नमः, हृदि।
ॐ बीजाय नमः, गृह्ये।
रश्मिमा प्रापतये नया अगस्त्यऋषये नम पादयोः।
ॐ तत्सवितुरित्यादिगायत्रीकीलकाय नमः, नाभौ।

करन्यास 
ॐ रश्पिमते अङ्गुष्ठाभ्यां नमः।
ॐ समुद्यते तर्जनीभ्यां नमः।
ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः।
ॐ विवस्वते अनामिकाभ्यां नमः।
ॐ भास्कराय कनिष्ठिकाभ्यां नमः।
ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः।

 हृदयादि अङ्गन्यास 
ॐ रश्मिमते हृदयाय नमः।
ॐ समुद्यते शिरसे स्वाहा।
ॐ देवासुरनमस्कृताय शिखायै वषट्।
ॐ विवस्वते कवचाय हुम्।
ॐ भास्कराय नेत्रत्रयाय वौषट्।
ॐ भुवनेश्वराय अस्त्राय फट।

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भगो देवस्य धीमहि धियो यो नः प्रचोदयात्।
तत्पश्चात् आदित्यहृदय स्तोत्रका पाठ करना चाहिये।

 श्रीआदित्यहृदयस्तोत्रम्


ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
 रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥


दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।
 उपगम्याब्रवीद्राममगस्त्यो भगवांस्तदा॥

 राम राम महाबाहो श्रृणु गुह्यं सनातनम्।
 येन सर्वानरीन् वत्स समरे विजयिष्यसे॥

आदित्यहृदयं  पुण्य सर्वशत्रुविनाशनम्।
जयावह जपं नित्यमक्षयं परमं शिवम्॥

 सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्।
चिन्ता शोक प्रशमनमा युर्वर्धनमुत्तमम्॥

 रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
 पूजयस्व विवस्वन्तं भास्कर भुवनेश्वरम्॥

 सर्वदेवात्मको ह्येष तेजस्वी  रश्मिभावनः।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः॥

पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
 वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः॥

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।
 सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥

 हरिदश्वः सहस्रार्चिः सप्तसप्तिमरीचिमान्।
 तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्॥

हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः॥

आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः।
 तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
 ज्योतिर्गणानां पतये दिनाधिपतये नमः॥

जयाय जयभद्राय हर्यश्वाय नमो नमः।
 नमो नमः सहस्रांशो आदित्याय नमो नमः॥

नम उग्राय वीराय सारङ्गाय नमो नमः।
 नमः पद्यप्रबोधाय प्रचण्डाय नमोऽस्तु ते॥

 ब्रह्मेशा ना च्युतेशाय सूरायादित्य वर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥

तप्तचामी कराभाय हरये विश्वकर्मणे।
 नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥

नाशयत्येष वै भूतं तमेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥

 एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः॥

 एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
 कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम्॥

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत्।
सर्व यत्नेन महता वृतस्तस्य वधेअ्भवत्॥

अथ रविवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः।
निशिचर पति संक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति॥


॥श्री वाल्मीकिये रामायणे युद्धकाण्डे अगस्त्यप्रोक्तमादित्यहृदय स्तोत्रं सम्पूर्ण॥