लम्बोदरच विकटो विघ्ननाशो विनायकः॥
आगमार्थं तु देवानां गमनार्थं च रक्षसाम्।कुरु घण्टे वरं नादं देवता स्थान संनिधौ॥
पृथिव्यां यानि तीर्थानि स्थावराणि चराणि च। तानि तीर्थानि शङ्खेऽस्मिन् विशन्तु ब्रह्मशासनात्॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते॥
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः। मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः॥अङ्गेश्च सहिताः सर्वे कलशं तु समाश्रिताः।अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः।आयान्तु देव पूजार्थं दुरित क्षय कारकाः॥गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेऽस्मिन् संनिधिं कुरु॥
देव दानव संवादे मथ्य माने महो दधौ।उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्॥त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः।त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः॥शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः।आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः॥त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः। त्वत्प्रसादादि मं यज्ञं कर्तु मीहे जलोद्भव॥ सांनिध्यं कुरु मे देव प्रसन्नो भव सर्वदा॥
उद्यत्कोटि दिवाकरा भमनिशं शङ्ख गदां पङ्कजं चक्रं बिभ्रतमिन्दिराव सुमतीसंशोभिपार्श्वद्वयम्। कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभैर्र्दीप्तं विश्वधरं स्ववक्षसि लसच्छीवत्सचिह्नं भजे॥ ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ विष्णवे नमः।
ध्यायेन्नित्यं महेशं रजतगिरिनिर्भ चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्। पद्मासीनं समन्तात् स्तुतममरगणै र्व्यघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्॥ ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ शिवाय नमः।
खर्व स्थूल तनुं गजेन्द्र वदनं लम्बोदरं सुन्दरंप्रस्यन्दन्मद गन्धलुब्धम धुपव्यालोल गण्डस्थलम्। दन्ताघात विदारितारि रुधिरैः सिन्दूर शोभाकरंवन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम्॥ ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीगणेशाय नमः।
रक्ताम्बुजासनम शेषगुणैकसिन्धुं भानुं समस्तजगताम धिप भजामि। पद्मद्वया भय वरान् दधतं कराब्जै र्माणि क्यमौलिमरुणाङ्ग रुचिं त्रिनेत्रम्॥ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीसूर्याय नमः।
सिंहस्था शशिशेखरा मरकत प्रख्यैश्चतुर्भिर्भुजैः शङ्ख चक्रधनुःशरांश्च दधती नेत्रस्त्रिभिः शोभिता।आमुक्ताङ्ग दहारकङ्कणरणत्काञ्चीरणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ श्रीदुर्गायै नमः।
आगच्छन्तु सुरश्रेष्ठा भवन्त्वत्र स्थिराः समे।यावत् पूजां करिष्यामि तावत् तिष्ठन्तु संनिधौ॥
अनेक रत्न संयुक्तं नानामणि गणान्वितम्। कार्तस्वर मयं दिव्य मासनं परि गृह्यताम्॥
पाद्यार्थ सम्प्रदास्यामि हृह्णन्तु परमेश्वराः॥
गृह्णन्त्वर्घ्यं महादेवाः प्रसन्नाश्च भवन्तु में॥
कपूरण सुगन्धेन वासितं स्वादु शीतलम्।तोयमा चमनी यार्थं गृह्णन्तु परमेश्वराः॥
मन्दाकिन्याः समानीतैः कर्पूरागुरुवासितैः।स्नानं कुर्वन्तु देवेशा जलैरेभिः सुगन्धिभिः॥
पञ्चामृतं मयाऽऽनीतं स्नानार्थ प्रतिगृह्यताम्॥
मलयाचलसम्भूतचन्दनेन विमिश्रितम्। इदं गन्धोदकं स्नानं कुङ्कुमाक्तं नु गृह्यताम्॥
मलयाचल सम्भूतचन्दनाऽगरुमिश्रितम्।सलिल देवदेवेश शुद्धस्नानाय गृह्यताम्॥
शीतवातोष्णसंत्राणे लोकलज्जानिवारणे।देहालङ्करणे वस्त्रे भवद्भ्यो वाससी शुभे॥
उपवीतं मया दत्तं गृह्णन्तु परमेश्वराः॥
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥
माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तितः।मयाऽऽहतानि पुष्पाणि पूजार्थ प्रतिगृह्यताम्॥
तुलसी हेमरूपां च रत्नरूपां च मञ्जरीम्।भवमोक्षप्रदां रम्यामर्पयामि हरिप्रियाम्॥
(भगवान के आगे चौकोर जलका घेरा डालकर उसमें नैवेद्य की वस्तुओं को रखे तब धूप दीप निवेदन करे)
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।आप्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।दीपं गृह्णन्तु देवेशास्त्रैलोक्यतिमिरापहम्॥
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
तेन मे सफलावाप्तिर्भवेज्जन्पनि जन्पनि॥
पूगीफलं महद् दिव्यं नागवल्लीदरलैर्युतम्।एलालवंगसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्।आरार्तिकमहं कुर्वे पश्य मां वरदो भव॥
शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि।अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति॥
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे॥
श्रद्धया सिक्तया भक्त्या हार्दप्रेम्णा समर्पितः।मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम्॥
सहस्रपादाक्षि शिरोरुबाहवे।
सहस्र नाम्ने पुरुषाय शाश्वते
सहस्रकोटीयुगधारिणे नमः॥
अकाल मृत्यु हरणं सर्वव्याधि विनाशनम्।
विष्णु पादोदकं पीत्वा पुनर्जन्म न विद्यते॥
यत्पूजितं मया देव परिपूर्णं तदस्तु मे॥
आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षमस्व परमेश्वर॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात् कारुण्यभावेन रक्ष मां परमेश्वर॥
