॥भगवान् गणेश का ध्यान॥
गजाननं भूतगणादि सेवितं कपित्थ जम्बूफल चारु भक्षणम्।
उमासुतं शोक विनाश कारकं नमामि विघ्नेश्वर पाद पङ्कजम्॥
॥भगवती गौरी का ध्यान॥
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥
श्रीगणेशाम्बिकाभ्यां नमः ध्यानं समर्पयामि।
॥भगवान् गणेशका आवाहन॥
ॐ गणानां त्वा गणपति गुँग हवामहे प्रियाणां त्वा प्रियपति गुँग हवामहे निधीनां त्वा निधिपति गुँग हवामहे वसो मम आहमजानि गर्भधमा त्वजासि गर्भधम्॥
एह्येहि हेरम्भ महेशपुत्र समस्त विघ्नौघ विनाशदक्ष।
माङ्गल्य पूजा प्रथम प्रधान गृहाण पूजां भगवन् नमस्ते॥
ॐ भूर्भुवः स्वः सिद्धि बुद्धि सहिताय गणपतये नमः गणपति मावाहयामि, स्थापयामि, पूजयामि च।
॥भगवती गौरी का आवाहन॥
ॐ अम्बे अम्बिके ऽम्बालिके न मा नयति कश्चन ससस्त्य श्वकः सुभद्रिकां काम्पील वासिनीम्॥
हेमाद्रि तनयां देवीं वरदा शङ्कर प्रियाम्।
लम्बोदरस्य जननीं गौरी मावाहयाम्यहम्॥
ॐ भूर्भुवः स्वः गौर्यै नमः गौरी मावाहयामि, स्थापयामि, पूजयामि च।
॥प्रतिष्ठा॥
ॐ मनो जूतिर् जुषता माज्यस्य बृहस्पतिर् यज्ञमिमं तनोत्व रिष्टं यज्ञ गुँग समिमं दधातु विश्वे देवास इह मादयन्तामो३ म्प्रतिष्ठ॥
अस्यै प्राणाः प्रतिष्ठिन्तु अस्यै प्राणाः क्षरन्तु च।
अस्यै देवत्व मर्चायै मामहेति च कश्चन।
गणेशाम्बिके सुप्रतिष्ठिते वरदे भवेताम्॥
प्रतिष्ठा पूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः।
॥पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय॥
ॐ देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम्॥
एतानि पाद्यार्घ्या चमनीय स्नानीय पुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः।
॥दुग्ध स्नान॥
ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्त रिक्षे पयो धाः पयस्वतीः प्रदिशः सन्तु मह्यम्॥
कामधेनु समुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः पयः स्नानं समर्पयामि।
॥दधि स्नान॥
ॐ दधि क्राव्णो अकारिषं जिष्णोर श्वस्य वाजिनः सुरभि नो मुखा करत्प्र ण आयू गुँग षि तारिषत्॥
पयसस्तु समुद्भूतं मधुरामब्तं शशि प्रभम्।
दध्यानीतं मया देव स्नानर्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः दधि स्नानं समर्पयामि।
॥मधु स्नान॥
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वो षधीः मधु नक्त मुतोषसो मधुमत् पार्थिव गुँग रजः मधु द्यौरस्तु नः पिता॥
पुष्प रेणु समुद्भूतं सुस्वादु मधुरं मधु।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां मधुस्नानं समर्पयामि।
॥शर्करा स्नान॥
ॐ अपा गुँग रसमुद्वयस गुँग सूर्ये सन्त गुँग समाहितम् अपा गुँग रसस्य यो रसस्तं वो गुह्णाम्युत्तम मुपया मगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनि रिन्द्राय त्वा जुष्टतमम्॥
इक्षुरस समुद्भूतां शर्करां पुष्टिदां शुभाम्।
मलापहा रिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः शर्करास्नानं समर्पयामि।
॥पञ्चामृत स्नान॥
ॐ पञ्च नद्यः सरस्वती मपि यन्ति सस्त्रोतसः सरस्वती तु पञ्चधा सो देशे ऽभवत्सरित्॥
पञ्चामृतं मयानीतं पयो दधि घृतं मधु।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां पञ्चामृत स्नानं समर्पयामि।
॥गन्धोदक स्नान॥
ॐ अ गुँग शुना ते अ गुँग शुः पृच्यतां परुषा परुः गन्धस्ते सोममवतु मदाय रसो अच्युतः॥
मलयाचल सम्भूतं चन्दनेन विनिःसृतम्।
इदं गन्धोदक स्नानं कुङ्कुमाक्तं च गृह्यताम॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः गन्धोदक स्नानं समर्पयामि।
॥शुद्धोदक स्नान॥
ॐ शुद्धवालः सर्वशुद्ध वालो मणिवालस्य आश्विनाः श्येतः श्येताक्षो ऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्या॥
गङ्गा च यमुना चैव गोदावरी सरस्वती।
नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां शुद्धोदक स्नानं समर्पयामि।
॥आचमन॥
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि।
॥वस्त्र॥
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः॥
शीत वातोष्ण संत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः वस्त्रं समर्पयामि।
॥आचमन॥
वस्त्रान्ते आचमनीयं जलं समर्पयामि।
ॐ सुजातो ज्योतिषा सह शर्म वरूथमा ऽसदत्स्वः वासो अग्ने विश्वारूप गुँग सं व्ययस्व विभावसो॥
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्व कर्मो पकारकम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रम् समर्पयामि)
॥यज्ञोपवीत॥
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर् यत्सहजं पुरस्तात्, आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीते नोपनह्यामि।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।
उपवीतं मया दत्तं गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः यज्ञोपवीतं समर्पयामि।
॥आचमन॥
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि।
॥चन्दन॥
ॐ त्वां गन्धर्वा अखनँस् त्वामिन्द्रस् त्वां बृहस्पतिः त्वामोषधे सोमो राजा विद्वान् यक्ष्माद मुच्यत॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनो हरम्।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः चन्दनानुलेपनं समर्पयामि।
॥अक्षत॥
ॐ अक्षन्न मीम दन्त ह्यव प्रिया अधूषत अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी॥
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः अक्षतान समर्पयामि।
॥पुष्पमाला॥
ॐ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः अश्वा इव सजित्व रीर्वी रुधः पारयिष्णवः॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो।
मयाहृतानि पुष्पाणि पूजार्थं प्रति गृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः पुष्पामालां समर्पयामि।
॥दूर्वा॥
ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च॥
दूर्वाङ्कुरान् सुहरितान मृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः दुर्वाङ्कुरान् समर्पयामि।
॥सिन्दूर॥
ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः घृतस्य धारा अरुषो न वाजी काजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः॥
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः सिन्दूरं समर्पयामि।
॥अबीर गुलाल॥
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा गुँग सं परि पातु विश्वतः॥
अबीरं च गुलालं च हरिद्रादि समन्वितम्।
नाना परिमलं द्रव्यं गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः नानापरिमल द्रव्याणि समर्पयामि।
॥सुगन्धित द्रव्य॥
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा गुँग सं परि पातु विश्वतः॥
दिव्य गन्ध समायुक्तं महापरिमलाद्भूतम्।
गन्ध द्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः सुगन्धि द्रव्यं समर्पयामि।
॥धूप॥
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं यो ऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः देवानामसि वह्नितम गुँग सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्॥
वनस्पति रसोद् भूतो गन्धाढयो गन्ध उत्तमः।
आघ्रेयः सर्व देवानां धूपोऽयं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः धूपमाघ्रापयामि।
॥दीप॥
ॐ अग्निर् ज्योतिर् ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा अग्निर् वर्चो ज्योतिर् वर्चः स्वाहा सूर्यो वर्चो ज्योतिर् वर्चः स्वाहा ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा॥
साज्यं च वर्ति संयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्यति मिरा पहाम्॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीप ज्योतिर् नमोऽस्तु ते॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः दीपं दर्शयामि।
॥नैवेद्य॥
ॐ नाभ्या आसीदन्त रिक्ष गुँग शीर्ष्णो द्यौः समवर्ततपद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन्॥
ॐ अमृतोपस्तरणमसि स्वाहा , ॐ प्राणाय स्वाहा, ॐ अपानाय स्वाहा,ॐ समानाय स्वाहा, ॐ उदानाय स्वाहा, ॐ व्यानाय स्वाहा, ॐ अमृतापिधानमसि स्वाहा।
शर्करा खण्ड खाद्यानि दधि क्षीर घृतानि च।
आहारं भक्ष्य भोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः नैवेद्यम निवेदयामि नैवेद्यान्ते आचमनीयं जलं समर्पयामि।
॥ऋतुफल॥
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व गुँग हसः॥
इदं फलं मया देव स्थापितं पुरतस्तव।
तेन मे सफला वाप्तिर् भवेज् जन्मनि जन्मनि॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ऋतुफलानि समर्पयामि फलान्ते आचमनीयं जलं समर्पयामि।
उत्तरापोऽशन उत्तरापोऽशनार्थे जलं समर्पयामि, गणेशाम्बिकाभ्यां नमः॥
॥करोद्वर्तन॥
ॐ अ गुँग शुना ते अ गुँग शुः पृच्यतां परुषा परुः गन्धस्ते सोममवतु मदाय रसो अच्युतः॥
चन्दनं मलयोद्भूतं कस्तूर्यादि समन्वितम्।
करोद्वर्त नकं देव गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः करोद्वर्तनकं चन्दनं समर्पयामि।
॥ताम्बूल॥
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो ऽस्यासी दाज्यं ग्रीष्म इध्मः शरद्धविः॥
पूगी फलं महाद्दिव्यं नागवल्ली दलैर्युतम्।
एलादि चूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः मुखवासार्थम् एलालवंग पूगीफल सहितं ताम्बूलं समर्पयामि।
॥दक्षिणा॥
ॐ हिरण्य गर्भः समवर्त ताग्रे भूतस्य जातः पतिरेक आसीत् स दाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम॥
हिरण्य गर्भ गर्भस्थं हेमबीजं विभावसोः।
अनन्त पुण्य फल दमतः शान्ति प्रयच्छ मे॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।
॥आरती॥
ॐ इदं गुँग हविः प्रजननं मे अस्तु दशवीर गुँग सर्वगण गुँग स्वस्तये आत्मसनि प्रजासनि पशुसनि लोकसन्य भयसनि अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त॥
ॐ आ रात्रि पार्थिव गुँग रजः पितुर प्रायि धामभिः दिवः सदा गुँग सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः॥
कदली गर्भ सम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः आरार्तिकं समर्पयामि।
॥पुष्पाञ्जलि॥
ॐ यज्ञेन यज्ञमय जन्त देवास्तानि धर्माणि प्रथमा न्यासन् ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥
नाना सुगन्धि पुष्पाणि यथा कालोद् भवानि च।
पुष्पाञ्जलिर् मया दत्तो गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः पुष्पांजलि समर्पयामि।
॥प्रदक्षिणा॥
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः तेषा गुँग सहस्त्र योजने ऽव धन्वानि तन्मसि॥
यानि कानि च पापानि जन्मान्तर कृतानि च।
तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः प्रदक्षिणां समर्पयामि।
॥विशेषार्घ्य॥
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक।
भक्तानाम भयं कर्ता त्राता भव भवार्णवात्॥
द्वैमातुर कृपासिन्धो षाण्मातुरा ग्रज प्रभो।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद॥
अनेन सफलार्घ्येण वरदो ऽस्त सदा मम॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः विशेषार्घ्यं समर्पयामि॥
॥प्रार्थना॥
विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय।
नागाननाय श्रुतियज्ञ विभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते॥
भक्तार्ति नाशन पराय गणेश्वराय
सर्वेश्वराय शुभदाय सुरेश्वराय।
विद्याधयाय विकटाय च वामनाय
भक्त प्रसन्नवरदाय नमो नमस्ते॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः
नमस्ते रुद्र रूपाय करिरूपाय ते नमः।
विश्वरूप स्वरूपाय नमस्ते ब्रह्मचारिणे
भक्त प्रियाय देवाय नमस्तुभ्यं विनायक॥
त्वां विघ्न शत्रुदल नेति च सुन्दरेति
भक्तप्रियेति सुख देति फल प्रदेति।
विद्या प्रदेत्य घहरेति च ये स्तुवन्ति
तेभ्यो गणेश वरदो भव नित्यमेव॥
त्वं वैष्णवी शक्तिर नन्तवीर्या
विश्वस्य बीजं परमासि माया।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्न भुवि मुक्ति हेतुः॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः प्रार्थना पूर्वकं नमस्कारान् समर्पयामि।
॥साष्टाङ्ग नमस्कार॥
गणेश पूजने कर्म यन्न्यूनमधिकं कृत्य।
तेन सर्वाण सर्वात्मा प्रसन्नोऽस्तु सदा मम॥
अनया पूजया गणेशाम्बिके प्रीयेताम् न मम