दुर्गा स्तवराज स्तोत्रम्

Pandit ji for puja

श्रीं दुर्गा आपदुद्धार स्तवराज स्तोत्र 


नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्वयापिके विश्वरूपे 
नमस्ते जगद्वन्द्य पादा रविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे॥

नमस्ते जगच्चिन्त्य मान स्वरूपे
नमस्ते महायोगिनि ज्ञान रूपे
नमस्ते नमस्ते सदानन्दरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे॥

अनाथस्य दीनस्य तृष्णातुरस्य
भयार्तस्य भीतस्य बुद्धस्य जन्तोः
त्वमेका गतिर्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे॥

अरण्ये रणे दारुणे शत्रुमध्ये
ऽनले सागरे प्रान्तरे राजगेहे
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे॥

अपारे महादुस्तरेऽत्यन्तघोरे
विपत्सागरे मज्जतां देहभाजाम्
त्वमेका गतिर्देवि निस्तारहेतुर्नमस्ते
नमस्ते जगत्तारिणि त्राहि दुर्गे॥

नमश्चण्डिके चण्डदुर्दण्डलीला
समुत्खण्डिताखण्डिताशेषशत्रो
त्वमेका गतिर्देव निस्तारबीजं
नमस्ते जगत्तारिणि त्राहि दुर्गे॥

त्वमेवाघभावधृतासत्यवादीर्न
जाताजितक्रोधनात् क्रोधनिष्ठा
इडा पिङ्गला त्वं सुषुम्णा च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे॥

नमो देवि दुर्गे शिवे भीमनादे
सरस्वत्य रुन्धत्य मोघस्वरूपे
विभूतिः शची कालरात्रिः सतिस्त्वं
नमस्ते जगत्तारिणि त्राहि दुर्गे॥

शरणमसि सुराणां सिद्धविद्याधराणां
मुनि मनुज पशूनां दस्युभिस्त्रासितानाम्
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद॥

इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम्।
त्रिसन्ध्यमेकसन्ध्यं वा पठनाद् घोरसङ्कटात्॥

मुच्यते नाऽत्र सन्देहो भुवि स्वर्गे रसातले।
सर्वं वा श्लोकमेकं वा यः पठेद् भक्तिमान् सदा॥

स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम्।
पठनादस्य देवेशि किं न सिध्यति भूतले॥
स्तवराजमिमं देवि संक्षेपात् कथितं मया॥
        

॥इति सिद्धेश्वरीतन्त्रे उमामहेश्वरसंवादे श्रीदुर्गापदुद्धारस्तवराजं सम्पूर्णम्॥