गणेश पञ्चरत्नम् स्त्रोतम्


मुदा करात्त मोदकं सदा विमुक्ति साधकं
कला धरावतं सकं विलासिलोक रञ्जकम्।
अनायकैक नायकं विना शितेभ दैत्यकं
नता शुभा शुनाशकं नमामि तं विनायकम्॥

नतेत राति भीकरं नवोदि तार्क भास्वरं
नमत्सुरारि निर्जरं नताधिका पदुद्धरम्।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं 
महेश्वरं तमाश्रये परात्परं निरन्तरम्॥

समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरं
दरेत रोदरं वरं वरेभव क्त्रक्षरम्।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं 
नमस्करं नमस्कृतां नमस्करोमि भास्वरम्॥

अकिं चनार्ति मार्जनं चिरन्त नोक्ति भाजनं
पुरारि पूर्वनन्दनं सुरारिगर्व चर्वणम्।
प्रपञ्च नाशभीषणं धनञ्जयादि भूषणं
कपोल दान वारणं भजे पुराण वारणम्॥

नितान्त कान्त दन्तकान्ति मन्तकान्त कात्मजम
चिन्त्य रूप मन्तहीन मन्तराय कृन्तनम्।
हृदन्तरे निरन्तरं वसन्त मेव योगिनां
तमेक दन्तमेव तं विचिन्त यामि संततम्॥

महागणेश पञ्चरत्न मा दरेण योऽन्वहं
प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम्।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहिता युरष्टभूति मभ्युपैति सोऽचिरात्॥

 
॥ श्रीमच्छङ्कराचार्यकृतं गणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ॥