भवान्यष्टकं स्तोत्र मन्त्रम्



न तातो न माता न बन्धुर् न दाता,
न पुत्रों न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥

भवाब्धाव पारे महा दुःख भीरुः,
पपात प्रकामी प्रलोभी प्रमत्तः।
कुसंसार पाश प्रबद्धः सदाऽहं,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥

न जानामि दानं न च ध्यान योगं,
न जानामि तन्त्रं न च स्तोत्र मन्त्रम्।
न जानामि पूजा न च न्यास योगं,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥

न जानामि पुण्यं न जानामि तीर्थं,
न जानामि मुक्तिं लयं वा कदाचित।
न जानामि भक्तिं व्रतं वाऽपि मातर् ,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः,
कुलाचार हीनः कदाचार लीनः।
कुदृष्टिः कुवाक्य प्रबन्धः सदाऽहं,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥

प्रजेशं    रमेशं   महेशं    सुरेशं,
दिनेशं निशीथेश्र्वरं वा कदाचित्।
न जानामि चाऽन्यत् सदाऽहं शरण्ये,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥

विवादे   विषादे   प्रमादे    प्रवासे,
जले  चाऽनले  पर्वते  शत्रु   मध्ये।
अरण्ये शरण्ये   सदा मां  प्रपाहि,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥

अनाथो दरिद्रो जरा रोग युक्तो
महाक्षीण दीनः सदा जाडयवक्त्रः।
विपत्तौ प्रविष्टः प्रणष्टः सदाऽहं,
गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥


॥इति श्रीमच्छ शङ्कराचार्य कृतं भवान्यष्टकं सम्पूर्णम्॥