॥हनुमत् प्रणाम मन्त्राः॥
ॐ अञ्जना गर्भ सम्भूतं वायुपुत्रं महाबलम्।
सीता शोक विनाशाय सुग्रीवस्य सदा प्रियम्॥
प्रणमामि सदा भक्त्या सवविघ्न विनाशनम्।
रक्षोघ्नं वरदं शीघ्रं गदितं सर्व कामदम्॥
रामेष्ट फाल्गुन सखं रसिनः सुख कारकम्।
समुद्र लङ्घनं देवं कार्य सिद्धयै नमाम्यहम्॥
॥दण्डवत् प्रणाम मन्त्र॥
ओं रूप देहि जयं देहि भाग्यं वायुज देहि मे।
पुत्रान् देहि धनं देहि सर्वाम् कामान् प्रदेहि मे॥
॥ अथ हनूमत् कवचम्॥
विनियोग
ॐ अस्य श्रीहनूमत् कवच स्तोत्र मन्त्रस्य श्रीरामचन्द्र ऋषि, हनूमद्देवता अनुष्टुप् छन्दः मारुतात्मज इति बीजम् अञ्जनी सूनुरिति शक्तिः लक्ष्मण प्राणदाता चेति कीलकं मम सकल कामना सिद्ध्यर्थं भूत प्रेत पिशाचवाधापरि हारार्थं जपे विनियोगः॥
अथ करन्यासः
ॐ ह्रां अञ्जनीसूनवे अङ्गुष्ठाभ्यां नमः,ॐ ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः, ॐ ह्रूं कपीशात्मने मध्यमाभ्यां नमः, ॐ ह्रैं वायुसुतात्मने अनामिकाभ्यां नमः,ओं ह्रौं रामदूताय कनिष्ठकाभ्यां नमः, ॐ ह्रँः ब्रह्मास्त्रनिवारणाय करतल कर पृष्ठाभ्यां नमः॥
अथ अङ्गन्यासः
ॐ ह्रां अञ्जनीसूनवे हृदयाय नमः,ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा, ॐ ह्रूं कपीशात्मन शिखायै वषट्, ॐ ह्रैं वायुसुतात्मने कवचाय हुं,ओं ह्रौं रामदूताय नेत्रत्रयाय वौषट्, ॐ ह्रँः ब्रह्मास्त्र निवारणाय अस्त्राय फट्॥
अथ ध्यानम्
ध्यायेद् बाल दिवाकर द्युतिनिभं देवारि दर्पापहं।
देवेन्द्र प्रमुखं प्रशास्तय शसं दे दीप्यमानं रुचा॥
सुग्रीवादि समस्त वानरयुतं सुव्यक्त तत्त्व प्रियं।
संरक्ता यत लोचनं पवनजं पीताम्बरा लङ्कृतम्॥
उद्यन्मार्त्तण्ड कोटि प्रकर रुचि युतं चारु वीरासनस्थं।
मौञ्जी यज्ञोपवीता भरण मुरुशिखा शोभितं कुण्डलाभ्याम्॥
भक्तानामिष्ट दान प्रवण मनुदिनं वेद नाद प्रमोदं।
ध्यायेदेवं विधं तं प्लवग कुलपति गोष्पदी भूत वाद्धिम्॥
वज्राङ्गं पिङ्ग केशाढयं स्वर्ण कुण्डल मण्डितम्।
निगूढ मुप सङ्गम्य पारावार पराक्रमम्॥
वामहस्त समाकृष्ट दशास्य कर खण्डनम्।
उद्यद्दक्षिण दोर्दण्डं हनूमन्तं विचिन्त येत्॥
स्फटिकाक्षं स्वर्ण कान्तिं द्विभुजं च कृताञ्जलिम्।
कुण्डल द्वय संशोभि मुखाम्भोजं हरिं भजेत्॥
उद्यदादित्य सङ्काश मुदार भुज विक्रमम्।
कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम्॥
श्रीराम हृदया नन्दं भक्त कल्प महीरुहम्।
अभयं वरदं दोर्भ्यां कलयेन् मारुतात् मजम्॥
अपराजित पिङ्गाक्ष नमस्ते राम पूजित।
यत्र स्थाने स्मरिष्यामि सिद्धिर्भवतु मे सदा॥
यो वारां निधिमल्प पल्वल लमिवोल्लङ्ध्य प्रतापान्वितो।
वैदेही धन शोक ताप हरणो वैकुण्ठ भक्ति प्रियः॥
अक्षाद्यूर्जित राक्षसेश्वर महादर्पाप हारी रणे।
सोऽयं वानर पुङ्गवोऽवतु सदा ह्यस्मान् समीरात्मजः॥
वज्राङ्गं पिङ्गनेत्रं कनकमय लसत् कुण्डला कान्तगण्डं।
सद्यो विद्याधिनाथं करतल विघृतं पर्णकुम्भं दधानम्॥
भक्ताभीष्टा धिकारं वितरति च सदा सुप्रसन्नं कपीन्द्रं।
त्रैलोक्य त्रासवारं सकल भुवनगं रामदूतं नमामि॥
उद्यल्लाङ्गल सक्त प्रलय जलधरं भीम मूर्त्तिं कपीन्द्रं।
ध्यायन्तं रामचन्द्रं भ्रमर परिवृतं सत्त्वसारं प्रसन्नम्॥
दीप्ताकारं दधानं विमल रवि गिलं श्रीनिवास प्रियं तं।
वन्दे विद्यूल्लताभं प्रणत भय हरं स्वर्ण यज्ञोपवीतम्॥
वामे करे वैरिभयं वहन्तं शैलं तदन्येन विशाल टङ्कम्।
दधान मत्यच्छ सुवर्ण वर्ण भजे ज्वलत् कुण्डल रामदूतम्॥
पद्म राग मणि कुण्डल त्विषा पाटलीकृत कपोल मण्डलम्।
दिव्य हेम कदली वनान्तरे भावयामि पवनात्म नन्दनम्॥
अथ मन्त्र
ॐ नमो भगवते हनुमदाख्य रुद्राय सर्व दुष्ट जन मुख स्तम्भनं कुरु कुरु ॐ ह्रां ह्रीं ह्रूं ठं ठं ठं फट् स्वाहा॥
ॐ नमो हनुमते अञ्जनी गर्भ सम्भूताय राम लक्ष्मणा नन्द कारकाय कपि सैन्य प्रकाशनाय पर्वतोत् पाटनाय सुग्रीव सन्धारणाय परोच्चाटनाय कुमार ब्रह्मचर्य मौञ्जीधराय दुष्टोच्चाटन तत्पराय गम्भीर शब्दो दयाय ॐ ह्रां ह्रीं ह्रूं सर्व दुष्ट ग्रह विनाशनाय स्वाहा॥
ॐ नमो हनुमते भूत भविष्यद् वर्त्तमानान् सुदूर स्थान् समीपस्थान् सर्व काल दुष्टान् उच्चाटय उच्चाटय पर बलानि क्षोभय क्षोभय मम सर्वकार्याणि साधय साधय ॐ ह्रां ह्रीं ह्रूं फट् देहि देहि स्वाहा, ॐ शिवं ॐ सिद्धि ॐ ह्रां ॐ ह्रीं ॐ ह्रं ॐ ह्रैं स्वाहा॥
पर कृत यन्त्र मन्त्र पराहङ्कार भूत प्रेत पिशाच पर दृष्टि पर मुष्टि सर्व विध्न दुर्जन चेष्टा कुविद्या सर्वाग्र भयानि निवारय निवारय बन्धय बन्धय पच पच स्वाहा, यत्र यत्र इलु इलु तत्र तत्र चिलु चिलु विचिलु विचिलु कुचिलु कुचिलु किलि किलि सर्व कुयन्त्राणि दुष्ट वाचं ॐ फट् स्वाहा॥
ॐ नमो हनुमते पाहि पाहि सर्व ग्रह भूतानां शाकिनी डाकिनीनां विषम दुष्टानां सर्व विषयान् आकर्षय आकर्षय मर्दय मर्दय वेधय वेधय मृत्युं पीयूषय मारकान् मारय मारय शोषय शोषय ज्वल ज्वल प्रज्वल प्रज्वल भूत मण्डल पिशाच मण्डल निरसनाय,भूत ज्वर प्रेत ज्वर पिशाच ज्वर चातुर्थिक ज्वर विष्णु ज्वर महेश ज्वर ब्रह्मराक्षस ज्वरान् छिन्धि छिन्धि, भिन्धि भिन्धि अक्षिशूलं कुछिशूलं पक्षशूलं शिरोभ्यन्तर शूलं ब्रह्मराक्षस कुल प्रबल नाग कुल विषं निर्विषं कुरु कुरु फट् स्वाहा॥
ॐ ह्रीं सर्व दुष्ट निवारणाय स्वाहा, ॐ नमो हनुमते पवन पुत्राय वैश्वानर मुखाय; हन पाप दृष्टिं घोरदृष्टि हनुमदाज्ञा स्फुरे स्वाहा, ॐ ह्रां ह्रीं ह्रं ठं ठं ठं फट स्वाहा॥
अथ कवचम्
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः।
पातु प्रतीच्यां रक्षेध्नः पातु सागर पारगः॥
उदीच्या मूद् र्ध्वगः पातु केसरी प्रिय नन्दनः।
अघस्ताद्विष्ण भक्तस्तु पातु मध्यं च पावनिः॥
अवान्तर दिशः पातु सीता शोक विनाशनः।
लङ्का विदाहकः पातु सर्वा पद् भ्यो निरन्तरम्॥
सुग्रीवेशः शिरः पातु मस्तकं वायु नन्दनः।
भालं पातु महावीरो भ्रूमध्यं च हरिप्रियः॥
नेत्रे छायाप हारी च पातु नः प्लवगेश्वरः।
कपोलौ कर्णमूले च पातु श्री राम किङ्करः॥
नासाग्र मञ्जनी सृनुः पातु वक्त्रं हरीश्वरः।
वाचं रुद्रप्रियः पातु जिह्वां पिङ्गल लोचन॥
पातु दन्तान् फाल्गुनेष्ट श्चिबुकं दैत्यदर्प हृत।
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुराचितः॥
भुजौ पातु महातेजाः करौ तु चरणा युधः।
नखान्न खायुधः पातु कुक्षौ पातु कपीश्वरः॥
वक्षो मुद्रोपहारी च पातु पार्श्वे भुजायुधः।
लङ्का विभञ्जकः पातु पृष्ठ देशे निरन्तरम्॥
हृदयं वायु पुत्रस्तु जठरं तु महेश्वरः।
नाभिं श्रीराम दूतस्तु कटिं पात्व निलात्मजः॥
गुह्यं पातु महा प्राज्ञो लिङ्गं पातु शिव प्रियः।
उरु च जानुनी पातु लङ्का प्रासाद भञ्जकः॥
जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महावलः।
अचलोद्धारकः पातु पादौ भास्कर सन्निभः॥
अङ्गान्यमित सत्त्वाढयः पातु पादाङ्गुलीः सदा।
सर्वाङ्गानि महाशूरः पातु रोमाणि चात्मवान्॥
कपिराजो धनं रक्षेत् नेत्रे वै ब्रह्म चारिकः।
कुमारः कन्यकां पातुः पिङ्गाक्षः पशुरक्षकः॥
वायुसूनुः सुतं पातु अग्रे पातु महाबलः।
द्रोण गिरि समुत्थापी राजद्वारेऽपि रक्ष मे॥
जानकी शोक हृद्धात्रीं कुटुम्बं कपिवल्लभः।
रक्षाहीनं तु यत् स्थानं तद्रत्क्षेदू राम किङ्करः॥
हनुमत् कवचं यस्तु पठेद्विद्वान् विचक्षणः।
स एव पुरुष श्रेष्ठो भुक्ति मुक्ति च विन्दति॥
त्रिकाल मेक कालं वा पठेन्मास त्रयं तु यः।
सर्वान् रिपून् क्षणाज्जित्वा स पुमान् श्रियमाप्नुयात्॥
मध्यरात्रे जले स्थित्वा सप्तवारं जपेद् यदि।
क्षया पस्मार कुष्ठादि तापत्रय निवारणम्॥
अश्वत्थ मूलाऽर्किवारे स्थित्वा पठति यः पुमान्।
अचलां श्रियमाप्नोति सङ्ग्रामे विजयी भवेत्॥
लिखित्वा पूजयेद्यस्तु सर्व सौभाग्यवान् भवेत्।
यः करे धारये न्नित्यं स पुमान् श्रियमाप्नुयात्॥
विवादे दिव्य काले च द्यृते राज कुले रणे।
दशवारं पठेद् रात्रौ मिताहारौ जितेन्द्रियः॥
विजयं लभते लोके मानवे च नराधिपः।
भूते प्रेते महादुर्गे रणे सागर सम्प्लवे॥
सिंह व्याघ्र भये घोरे शर शास्त्रास्त्र पातने।
श्रृङ्खला बन्घने चैव कारागृह नियन्त्रणे॥
कोपस्तम्भे वह्नि चके खेदे भेदे च दारणे।
शोक्रे महारणे चैव ब्रह्म ग्रह निवारणे॥
सर्वदा यः पठेन्नित्यं जयं प्राप् नोति निश्चितम्।
भूर्जे वा वसने रक्ते क्षौमे वा ताल पत्रके॥
त्रिगन्धे नाथवा मस्या विलेख्य धारयेच्छुचिः।
पञ्च सप्त त्रिलोहैर्वा वेष्टयेत् कवचं शुभम्॥
गले कटयां बाहुमूले कण्ठे शिरसि घारयेत्।
सर्वान् कामा नवाप्नोति सत्यं श्रीराम भाषितम्॥
उल्लाङ्ध्य सिन्धोः सलिलं सलिलं
यः शोकवह्निं जनकात्मजायाः।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलि राञ्जनेयम्॥
हनूमानञ्जी सूनुर्वायु पुत्रो महाबलः।
रामेष्टः फाल्गुन सखः पिङ्गाक्षोऽमित विक्रमः॥
उदधि क्रमणणश्चैव सीता शोक विनाशनः।
लक्ष्मण प्राण दाता च दशग्रीवस्य दर्पहा॥
तेजस्वी सूर्य संङ्काशः सुग्रीव सचिवः प्रियः।
जीवनं कपि सिंहानां श्रीमान् रक्षः कुलान्तकः॥
नामाष्टा दशकं पुण्यं कपीन्द्रस्य महात्मनः।
स्वापकाले जपेन्नित्यं यात्राकाले विशेषतः॥
भयानि तस्य नश्यन्ति सत्यं सत्यं वदाम्यहम्।
बुद्धिर्बलं यशो धैर्य निर्भयत्व मरोगिता॥
अजाडयं वाक् पटुत्वं च हनुमत् स्मरणाद्भवेत्।
शोकस्य हरणं सद्यो वायु पुत्र प्रसादतः॥
मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानर यूथ मुख्यं श्री राम दूतं शिरसा नमामि॥
अञ्जनी नन्दनं वीरं जानकी शोक नाशनम्।
कपीश मक्ष हन्तारं वन्दे लङ्का भयङ्करम्॥
गोष्पदी कृत वारीशं मशकी कृत राक्षसम्।
रामायण महामाला रत्नं वन्देऽनिलात्मजम्॥
विशाल नेत्रं परिपूर्ण वक्त्रं सुग्रीव मित्रं जगतः पवित्रम्।
सीता कलत्रं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥
इत्येतत् कवचं दिव्यं सर्व रक्षाकरं नृणाम्।
पठनाद् ध्यान युक्तस्तु सर्वत्र विजयी भवेत्॥
॥इति श्रीब्रह्माण्ड पुराणे अगस्ति नारदसंवादे हनूमत्कवचं सम्पूर्णम्॥